(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

शान्तिपर्व (Mahabharat) - 12. शान्तिपर्व(महाभारत)


॥ श्रीः ॥
12.130. अध्यायः 130
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिंप्रति राज्ञा ब्रह्मस्ववर्जं आपदि प्रजापीडनेनापि कोशवृद्धेरवश्यं कर्तव्यत्वोक्तिः॥ 1॥


Mahabharata - Shanti Parva - Chapter Text

युधिष्ठिर उवाच। 12-130-0x(5709)(69902)
त्रैः प्रहीयमाणस्य बह्वमित्रस्य का गतिः।
-- संक्षीणकोशस्य बलहीनस्य भारत॥ 12-130-1(69903)
--मात्यसहायस्य श्रुतमन्त्रस्य सर्वतः।
ज्यात्प्रच्यवमानस्य गतिमन्यामपश्यतः॥ 12-130-2(69904)
परचक्राभियातस्य परराष्ट्राणि मृद्गतः।
विग्रहे वर्तमानस्य दुर्बलस्य बलीयसा॥ 12-130-3(69905)
असंविहितराष्ट्रस्य देशकालावजानतः।
अप्राप्यं च भवेत्सान्त्वं भेदो वाऽप्यतिपीडनात्। 12-130-4(69906)
जीवितं त्वर्थहेतोर्वा तत्र किं सुकृतं भवेत्॥ 12-130-5(69907)
भीष्म उवाच।
गुह्यां मा धर्ममप्राक्षीरतीव भरतर्षभ। 12-130-6x(5710)
प्रवक्तुं नोत्सहे पृष्टो धर्ममेतं युधिष्ठिर॥
धर्मो ह्यणीयान्वचनाद्वुद्धेश्च भरतर्षभ।
श्रुत्वौपम्यं सदाचारैः साधुर्भवति स क्वचित्॥ 12-130-6(69908)
कर्मणा बुद्धिपूर्वेण भवत्याढ्ये न वा पुनः।
तादृशोऽयमनुप्रश्नस्तद्ध्यायस्व स्वया धिया॥ 12-130-7(69909)
उपायं धर्मबहुलं यात्रार्थं शृणु भारत।
नाहमेतादृशे धर्मे बुभूषे धर्मकारणात्॥ 12-130-8(69910)
दुःखादान इह ह्येष स्यात्तु पश्चात्क्षमो मम।
अभिगम्य मतीनां हि सर्वासामेव निश्चयम्॥ 12-130-9(69911)
यथायथा हि पुरुषो नित्यं शास्त्रमवेक्षते।
तथातथा विजानाति विज्ञानं चास्य रोचते॥ 12-130-10(69912)
अविज्ञानादयोगो हि पुरुषस्योपजायते।
विज्ञानादपि योगश्च योगो भूतिकरः परः॥ 12-130-11(69913)
अशङ्कमानो वचनमनसूयुरिदं शृणु।
राज्ञः कोशक्षयादेव जायते बलसंक्षयः॥ 12-130-12(69914)
कोशं संजनयेद्राजा नित्यमेभ्यो यथाबलम्।
कालं प्राप्यानुगृह्णीयादेष धर्मोऽत्र सांप्रतम्॥ 12-130-13(69915)
उपायधर्मं प्राप्यैनं पूर्वैराचरितं जनैः।
अन्यो धर्मः समर्थानामापत्स्वल्पश्च भारत॥ 12-130-14(69916)
प्रकार्यं प्रोच्यते धर्मो वृत्तिर्धर्मे गरीयसी।
धर्मं प्राप्य यथान्यायं न बलीयान्निषीदति॥ 12-130-15(69917)
यस्माद्धर्मस्योपचितिरेकान्तेन न विद्यते।
तस्मादापद्यधर्मोऽपि श्रूयते धर्मलक्षणः॥ 12-130-16(69918)
अधर्मो जायते तस्मिन्निति वै कवयो विदुः।
अनन्तरं क्षत्रियस्य तत्र किं विचिकित्स्यते॥ 12-130-17(69919)
यथास्य धर्मो न ग्लायेन्नेयाच्छत्रुवशं यथा।
तत्कर्तव्यमिहेत्याहुर्नात्मानमवसादयेत्॥ 12-130-18(69920)
सर्वात्मनैव धर्मस्य न परस्य न चात्मनः।
सर्वोपायैरुज्जिहीर्षेदात्मानमिति निश्चयः॥ 12-130-19(69921)
तत्र धर्मविदस्तात निश्चयो धर्मनैपुणैः।
उद्यमं जीवनं क्षात्रे बाहुवीर्यादिति श्रुतिः॥ 12-130-20(69922)
क्षत्रियो वृत्तिसंरोधे कस्य नादातुमर्हति।
अन्यत्र तापसस्वाच्च श्रोत्रियस्वाच्च भारत॥ 12-130-21(69923)
यथा वै ब्राह्मणः सीदन्नयाज्यमपि याजयेत्।
अभोज्यमपि चाश्नीयात्तत्रेदं नात्र संशयः॥ 12-130-22(69924)
पीडितस्य किमद्वारमुत्पथेनार्दितस्य च।
अद्वारतः प्रद्रवति यथा भवति पीडितः॥ 12-130-23(69925)
तस्य कोशबलग्लान्यां सर्वलोकपराभवः।
भैक्षचर्या न विहिता न च विट्शूद्रजीविका॥ 12-130-24(69926)
स्वधर्मानन्तरावृत्तिर्याऽन्यामनुपजीवतः।
जहतः प्रथमं कल्पमनुकल्पेन जीवनम्॥ 12-130-25(69927)
आपद्गतेन धर्माणामन्यायेनोपजीवनम्।
अपि ह्येतद्ब्राह्मणेषु दृष्टं वृत्तिपरिक्षये॥ 12-130-26(69928)
क्षत्रिये संशयः कस्मादित्येत्निश्चितं सदा।
आददीत विशिष्टेभ्यो नावसीदेत्कथंचन॥ 12-130-27(69929)
आर्तानां रक्षितारं च प्रजानां क्षत्रियं विदुः।
तस्मात्संरक्षता कार्यमादानं क्षत्रबन्धुना॥ 12-130-28(69930)
अन्यत्रापि विहिंसाया वृत्तिर्नेहास्ति कस्यचित्।
अप्यरण्यसमुत्थस्य एकस्य चरतो मुनेः॥ 12-130-29(69931)
न शङ्खलिखितां वृत्तिं शक्यमास्थाय जीवितुम्।
विशेषतः कुरुश्रेष्ठ प्रजापालनमीप्सता॥ 12-130-30(69932)
परस्पराभिहरणं राज्ञा राष्ट्रेण चापदि।
नित्यमेव हि कर्तव्यमेष धर्मः सनातनः॥ 12-130-31(69933)
राजा राष्ट्रं यथापत्सु द्रव्यौधैः परिरक्षति।
राष्ट्रेण राजा व्यसने परिरक्ष्यस्तथा भवेत्॥ 12-130-32(69934)
कोशं दण़्डं बलं मित्रं यदन्यदपि संचितम्।
न कुर्वीतान्तरं राष्ट्रे राजा परिगतः क्षुधा॥ 12-130-33(69935)
बीजं भक्तेन संपाद्यमिति धर्मविदो विदुः।
अत्रैतच्छम्बरस्याहुर्महामायस्य दर्शनम्॥ 12-130-34(69936)
धिक्तस्य जीवितं राज्ञो राष्ट्रं यस्यावसीदति।
अवृत्त्यान्यमनुष्योऽपि यो वैदेशिक इत्यपि॥ 12-130-35(69937)
राज्ञः कोशबलं मूलं कोशमूलं पुनर्बलम्।
तन्मूलं सर्वधर्माणां धर्ममूलाः पुनः प्रजाः॥ 12-130-36(69938)
नान्यानपीडयित्वेह कोशः शक्यः कुतो बलम्।
तदर्थं पीडयित्वा च न दोषं प्राप्नुमर्हति॥ 12-130-37(69939)
अकार्यमपि कार्यार्थं क्रियते यज्ञकर्मसु।
एतस्मिन्कारणे राजा न दोषं प्राप्नुमर्हति॥ 12-130-38(69940)
अर्थार्थमन्यद्भवति विपरीतमथापरम्।
अनर्थार्थमथाप्यन्यत्तत्सर्वं ह्यर्थकारणम्।
एवं बुद्ध्या संप्रपश्येन्मेधावी कार्यनिश्चयम्॥ 12-130-39(69941)
यज्ञार्थमन्यद्भवति यज्ञोऽन्यार्थस्तथाः परः।
यज्ञस्वार्थार्थमेवान्यत्तत्सर्वं यज्ञसाधकम्॥ 12-130-40(69942)
उपमामत्र वक्ष्यामि धर्मतत्त्वप्रकाशिनीम्॥ 12-130-41(69943)
यूपं छिन्दन्ति यज्ञार्थं तत्र ये परिपन्थिः।
द्रुमाः केचन सामन्ता ध्रुवं छिन्दन्ति तानपि॥ 12-130-42(69944)
ते चापि निपतन्तोऽन्यान्निघ्नन्त्यपि वनस्पतीन्।
एवं कोशस्य महतो ये नराः परिपन्थिनः।
तानहत्वा न पश्यामि सिद्धिमत्र परंतप॥ 12-130-43(69945)
धनेन जयते लोकमिमं चामुं च भारत।
सत्यं च धर्मवचनं यथा नास्त्यधनस्तथा॥ 12-130-44(69946)
सर्वोपायैराददीत धनं यज्ञप्रयोजनम्।
न तुल्यदोषः स्यादेवं कार्याकार्येषु भारत॥ 12-130-45(69947)
नोभौ सभवतो राजन्कथंचिदपि भारत।
न ह्यरण्येषु पश्यामि धनवृद्धानहं क्वचित्॥ 12-130-46(69948)
यदिदं दृश्यते वित्तं पृथिव्यामिह किंचन।
ममेदं स्यान्ममेदं स्यादित्येवं मन्यते जनः॥ 12-130-47(69949)
न च राज्ञः समो धर्मः कश्चिदस्ति कथंचन।
धर्मः संशब्दितो राज्ञामापदर्थस्ततोऽन्यथा॥ 12-130-48(69950)
ज्ञानेन कर्मणा चान्ये तपन्त्यन्ये तपस्विनः।
बुद्ध्या दाक्ष्येण चैवान्ये चिन्वन्ति धनसंचयान्॥ 12-130-49(69951)
अधनं दुर्बलं प्राहुर्धनेन बलवान्भवेत्।
सर्वं बलवतः प्राप्यं सर्वं तरति कोशवान्॥ 12-130-50(69952)
कोशो धर्मश्च कामश्च परलोकस्तथा ह्ययम्।
तं धर्मेण विलिप्सेत नाधर्मेण कदाचन॥ ॥ 12-130-51(69953)

इति श्रीमन्महाभारते शतसाहस्त्रिकायां संहितायां वैयासिक्यां शान्तिपर्वणि राजधर्मपर्वणि त्रिंशदधिकशततमोऽध्यायः॥ 130॥ समाप्तं च राजधर्मपर्व ॥ 1॥

Mahabharata - Shanti Parva - Chapter Footnotes

12-130-2 सर्वतः सर्वैः॥ 12-130-3 परस्य चक्रं राष्ट्रं प्रत्यभियातस्य। बलीयसा सार्धम्॥ 12-130-4 असंविहितमसम्यग्रक्षितं राष्ट्रं येन तस्य। अतिपीडनात् परकीयामात्यादीनां भेदोऽप्यप्राप्यः॥ 12-130-5 मा मामप्राक्षीः पृष्टवानसि। गुह्यं धर्मज मा प्राक्षीरतीव भरतर्षभ। अपृष्टो नोत्संहे वक्तुं धर्ममेतं युधिष्ठिरेति झ. पाठः॥ 12-130-6 वचनाच्छास्त्रात्॥ 12-130-8 यात्रार्थं राज्ञां व्यवहारनिर्वाहार्थम्। बुभूषे प्राप्तुमिच्छामि॥ 12-130-9 एष उपायो दुःखादानः अजानां दुःखेनाऽऽदीयतेङ्गीक्रियते॥ 12-130-11 अयोग उपायाभावः॥ 12-130-13 अनुगृह्णीयात् प्राक्कर्षिताः प्रजा इति शेषः॥ 12-130-14 उपायधर्ममुपधर्मम्। अमुख्यधर्ममितियावत्॥ 12-130-17 अनन्तरं आपन्निवृत्त्युत्तरं तत्र पूर्वोक्ताधर्मे किं विचिकित्स्यते प्रायश्चित्तादिकं कराग्रहणादिकं च विधीयते दोषपरिहारार्थमित्यर्थः॥ 12-130-19 धर्मस्येति कर्मणिषष्ठी। परस्य धर्मं नोज्जिही र्षेत्राप्यात्मनो धर्ममुज्जिहीर्षेदपि तु आत्मान मेव उज्जिहीर्षेत्। स्वपरधर्मलोपेऽप्यात्मानमेवोद्धर्तुमिच्छेदित्यर्थः॥ 12-130-30 शङ्खेललाटास्थ्नि छिखितां वृत्तिम्। दिष्टमात्रालम्बिना राज्ञ जीवितं न शक्यम्॥ 12-130-33 अन्तरं दूरतः॥ 12-130-34 बीजभक्तेन संपादितं चेदग्रे भक्तदौर्वल्यं यथाभवति एवमत्यधे राजा प्रजाभिर्न रक्षितो नश्यति। नष्टे च तस्मिन्सर्वाः प्रजा अपि नश्यन्तीत्यर्थः। एतत्पूर्वार्धोक्तं दर्शनं शास्त्रम्॥ 12-130-35 अवृत्त्या जीविकाया अभावेन यस्य राष्ट्रं अवसीदति यो वा अमनुष्यः यो वा वैदेशिको देशान्तरोपजीवी तस्य राज्ञो जीवीतं धिक्॥ 12-130-36 राज्ञो मूलं कोशो बलं च। कोशो बलस्य मूल तद्बलं धर्माणां मूलम्। अतः सर्वस्य मूलभूतं कोशं वर्धयेत्॥ 12-130-39 अन्यत् आपदि प्रजापीडनमप्यर्थार्थं भवति। अ अपीडनं विपरीतं अनर्थार्थं भवति। यदप्यन्यत् अनर्थार्थं अर्थाभावार्थं कुञ्जरपालादि भवति तदेवेहार्थस्य कारणं उत्पादकं भवति॥ 12-130-40 यथा पश्वादिकं यज्ञार्थं यज्ञश्च चित्तसंस्कारार्थः। पश्वादिकं यज्ञः संस्कारश्चेति त्रयं अर्थार्थं मोक्षार्थं भवति। एवं दण़्डः कोशार्थं कोशो बलार्थं बलं शत्रुपराभवार्थम्। कोशो बलं जयश्चेति त्रयं राष्ट्रपुष्ट्यर्थमिति भावः॥ 12-130-42 सामन्ताः प्रतिपक्षभूताः॥ 12-130-44 यथा नास्त्यधनस्तथेति जीवन्मृतत्वमधनस्योक्तम्॥ 12-130-45 कार्याकार्येषु विहितनिषिद्धेषु आपदि प्रजापीडनं विहितं तदेवानापदि निषिद्धं। तथाभूतेष्वर्थेषु तुल्यदोषो न स्याद्देशकालानुसारेण कार्यमप्यकार्यं भवत्यकार्यमपि कार्यं भवति तत्र विपरीतं न प्रतिपद्येतेति भावः॥ 12-130-46 उभौ धनसंग्रहत्यागावेकस्मिन्पुरुषे न संभवतः॥ 12-130-47 अन्येषु त्यागार्थसंभवमाह यदिदमिति॥ 12-130-48 न च राज्यसमो धर्म इति झ. पाठः। अनापद्येव राज्ञो बहुकरादानं पापमूलमापदि तु न तत्तथा भवतीत्यर्थः॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.